शुक्र कवचम्

Shukr kavacham


|| शुक्र कवचम् ||

 shukr kavacham
|| अथ शुक्र कवचम् ||

अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य भारद्वाज ऋषिः |
अनुष्टुप् छन्दः I शुक्रो देवता |
शुक्रप्रीत्यर्थं जपे विनियोगः ||
मृणालकुन्देन्दुषयोजसुप्रभं पीतांबरं प्रस्रुतमक्षमालिनम् |
समस्तशास्त्रार्थनिधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये || १ ||

ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः |
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनदयुतिः || २ ||

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः |
जिह्वा मे चोशनाः पातु कंठं श्रीकंठभक्तिमान् || ३ ||

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः |
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः || ४ ||

कटिं मे पातु विश्वात्मा ऊरु मे सुरपूजितः |
जानू जाड्यहरः पातु जंघे ज्ञानवतां वरः || ५ ||

गुल्फ़ौ गुणनिधिः पातु पातु पादौ वरांबरः |
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः || ६ ||

य इदं कवचं दिव्यं पठति श्रद्धयान्वितः |
न तस्य जायते पीडा भार्गवस्य प्रसादतः || ७ ||

|| इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णं ||

«« नवग्रह कवच शनि कवचम् »»