केतु कवचम्

|| केतुकवचम् ||



|| अथ केतुकवचम् ||

अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः |
अनुष्टप् छन्दः |
केतुर्देवता |
कं बीजं |
नमः शक्तिः |
केतुरिति कीलकम्  |  केतुप्रीत्यर्थं जपे विनियोगः ||
केतु करालवदनं चित्रवर्णं किरीटिनम् |
प्रणमामि सदा केतुंध्वजाकारं ग्रहेश्वरम् || १ ||

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः |
पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः || २ ||

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः |
पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः || ३ ||

हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः |
सिंहासनः कटिं पातु मध्यं पातु महासुरः || ४ ||

ऊरुं पातु महाशीर्षो जानुनी मेSतिकोपनः |
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः || ५ ||

य इदं कवचं दिव्यं सर्वरोगविनाशनम् |
सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् || ६ ||

|| इति श्रीब्रह्माण्डपुराणे केतुकवचं संपूर्णं ||

«« नवग्रह कवच नवग्रह मंत्र »»