मुदा करात्तमोदकं सदा विमुक्तिसाधकम्
कलाधरावतंसकं विलासलोक रक्षकम् |
अनायकैक नायकं विनाशितेभ दैत्यकम्
नताशुभाशु नाशकं नमामि तं विनायकम् || 1 ||
नतेतराति भीकरं नवोदितार्क भास्वरम्
नमत्सुरारि निर्जरं नताधिकापदुद्धरम् |
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम्
महेश्वरं तमाश्रये परात्परं निरन्तरम् || 2 ||
समस्तलोकशङ्करं निरस्तदैत्यकुंजरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् |
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् || 3 ||
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् |
प्रपंचनाशभीषणं धनंजयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम् || 4 ||
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् |
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् || 5 ||
महागणेशपंचरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् |
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां
समीहितायुरष्टभूतिमभ्युपैति सोऽचिरात् || 6 ||