ganesh stotra
प्रणम्य शिरसा देवं गौरी पुत्रं विनायकम
भक्तावासं स्मरेन्नित्यं आयु:कामार्थसिद्धये || १ ||
प्रथमं वक्रतुण्ड च एकदन्तं द्वितीयकम
तृतीयं कृष्णपिङ्गाक्षं गजवाकराम चतुर्थकम || २ ||
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम || ३ ||
नवमं भालचन्द्रं च दशमं तु विनायकम
एकादशं गणपतिं द्वादशं तु गजाननम || ४ ||
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः
न च विघ्नभयं तस्य सर्व सिद्धि कर: प्रभु: || ५ ||
विद्यार्थी लभते विद्यां, धनार्थी लभते धनं
पुत्रार्थी लभते पुत्रानमोक्षार्थी लभते गतिम् || ६ ||
जपे गणपति स्तोत्रं षड्भिर्मासैः फलं लभेत
संवत्सरेण सिद्धिं च लभते नात्र संशयः || ७ ||
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः || ८ ||