मंगल कवचम्

मंगल कवचम्

मंगल कवचम्

|| अथ मंगल कवचम् ||

अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः |
अनुष्टुप् छन्दः |
अङ्गारको देवता |
भौम पीडापरिहारार्थं जपे विनियोगः |
रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् |
धरासुतः शक्तिधरश्च शूली सदा ममस्याद्वरदः प्रशांतः || १ ||

अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः |
श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः || २ ||

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः |
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा || ३ ||

वक्षः पातु वरांगश्च हृदयं पातु लोहितः |
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः || ४ ||

जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा |
सर्वण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः || ५ ||

या इदं कवचं दिव्यं सर्वशत्रु निवारणम् |
भूतप्रेतपिशाचानां नाशनं सर्व सिद्धिदम् || ६ ||

सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम् |
भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् ||
रोगबंधविमोक्षं च सत्यमेतन्न संशयः || ७ ||

|| इति श्रीमार्कण्डेयपुराणे मंगलकवचं संपूर्णं ||

Comments

Write a Reply or Comment

Your email address will not be published. Required fields are marked *





Related Posts