बृहस्पति कवचम्

बृहस्पति कवचम्
|| अथ बृहस्पति कवचम् ||

अस्य श्रीबृहस्पतिकवचस्तोत्रमंत्रस्य ईश्वरऋषिः |
अनुष्टुप् छंदः |
गुरुर्देवता |
गं बीजं श्रीशक्तिः |
क्लीं कीलकम् |
गुरुपीडोपशमनार्थं जपे विनियोगः ||

अभीष्टफलदं देवं सर्वज्ञम् सुर पूजितम् |
अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् || १ ||

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः |
कर्णौ सुरगुरुः पातु नेत्रे मे अभीष्ठदायकः || २ ||

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः |
मुखं मे पातु सर्वज्ञो कंठं मे देवतागुरुः || ३ ||

भुजावांगिरसः पातु करौ पातु शुभप्रदः |
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः || ४ ||

नाभिं केवगुरुः पातु मध्यं पातु सुखप्रदः |
कटिं पातु जगवंद्य ऊरू मे पातु वाक्पतिः || ५ ||

जानुजंघे सुराचार्यो पादौ विश्वात्मकस्तथा|
अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः || ६ ||

इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः |
सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् || ७ ||

|| इति श्रीब्र्ह्मयामलोक्तं बृहस्पतिकवचं संपूर्णम् ||

Comments

Write a Reply or Comment

Your email address will not be published. Required fields are marked *





Related Posts