चन्द्र कवचम्

चन्द्र कवचम्
|| अथ चन्द्रकवचम् ||

श्रीचंद्रकवचस्तोत्रमंत्रस्य गौतम ऋषिः |
अनुष्टुप् छंदः |
चंद्रो देवता |
चन्द्रप्रीत्यर्थं जपे विनियोगः |
समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् |
वासुदेवस्य नयनं शंकरस्य च भूषणम् || १ ||

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् |
शशी पातु शिरोदेशं भालं पातु कलानिधिः || २ ||

चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः |
प्राणं क्षपाकरः पातु मुखं कुमुदबांधवः || ३ ||

पातु कण्ठं च मे सोमः स्कंधौ जैवा तृकस्तथा |
करौ सुधाकरः पातु वक्षः पातु निशाकरः || ४ ||

हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः |
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः || ५ ||

ऊरू तारापतिः पातु मृगांको जानुनी सदा |
अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा || ६ ||

सर्वाण्यन्यानि चांगानि पातु चन्द्रोSखिलं वपुः |
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ||
यः पठेच्छरुणुयाद्वापि सर्वत्र विजयी भवेत् || ७ ||

|| इति श्रीब्रह्मयामले चंद्रकवचं संपूर्णम् ||

Comments

Write a Reply or Comment

Your email address will not be published. Required fields are marked *





Related Posts