गणपति उपनिषद

॥ श्रीगणपत्यथर्वशीर्षोपनिषत् ॥ 
यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् । 
गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥ 


ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । 
स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः । व्यशेम देवहितं यदायुः । 
स्वस्ति न इन्द्रोवृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । 
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नोबृहस्पतिर्दधातु॥ 


ॐ शान्तिः शान्तिः शान्तिः ॥ 
हरिः ॐ नमस्तेगणपतये। त्वमेव प्रत्यक्षं तत्त्वमसि ।त्वमेव केवलं कर्तासि । 
त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि । 
त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् ॥ १॥ 


ऋतं वच्मि । सत्यं वच्मि । अव त्वं माम् । 
अव वक्तारम् । अव श्रोतारम् ॥ २॥ 


अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । 
अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । 
अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । 
अवाधरात्तात् । सर्वतोमां पाहि पाहि समन्तात् ॥ ३॥ 


त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः । 
त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४॥ 


सर्वं जगदिदं त्वत्तोजायते।सर्वं जगदिदं त्वत्तस्तिष्ठति । 
सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । 
त्वं भूमिरापोऽनलोऽनिलोनभः ।त्वं चत्वारि वाक्पदानि ॥ ५॥ 


त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः । त्वं देहत्रयातीतः । 
त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । 
त्वं शक्तित्रयात्मकः ।त्वां योगिनोध्यायन्ति नित्यम् । 
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥ ६॥ 


॥ श्रीगणपत्यथर्वशीर्षोपनिषत् ॥ 
गणादिं पूर्वमुच्चार्य वर्णादिंस्तदनन्तरम् । अनुस्वारः परतरः । 
अर्धेन्दुलसितम् । तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् । 
गकारः पूर्वरूपम् । अकारोमध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । 
बिन्दुरुत्तररूपम् ंआदः सन्धानम् । संहिता सन्धिः । 
सैषा गणेशविद्या । गणक ऋषिः । निचृद्गायत्री छन्दः । 
श्रीमहागणपतिर्देवता । ॐ गं गणपतयेनमः ॥ ७॥ 


एकदन्ताय विद्महेवक्रतुण्डाय धीमहि । 
तन्नोदन्तिः प्रचोदयात् ॥ ८॥ 


एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् । 
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् । 
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौप्रकृतेः पुरुषात्परम् । 
एवं ध्यायति योनित्यं स योगी योगिनां वरः ॥ ९॥ 


नमोव्रातपतयेनमोगणपतयेनमः प्रमथपतयेनमस्तेऽस्तु लम्बोदराय एकदन्ताय विघ्नविनाशिनेशिवसुताय श्रीवरदमूर्तये नमः ॥ १०॥ 


एतदथर्वशीर्षं योऽधीते। स ब्रह्मभूयाय कल्पते। 
स सर्वविघ्नैर्न बाध्यते। स सर्वतः सुखमेधते। 
स पञ्चमहापापात् प्रमुच्यते। सायमधीयानोदिवसकृतं पापं नाशयति । 
प्रातरधीयानोरात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानः पापोऽपापोभवति । 
धर्मार्थकाममोक्षं च विन्दति । इदमथर्वशीर्षमशिष्याय न देयम् । 
योयदि मोहाद् दास्यति । स पापीयान् भवति । सहस्रावर्तनाद्यं यं काममधीते। तं तमनेन साधयेत् ॥ ११॥ 


अनेन गणपतिमभिषिञ्चति । स वाग्मी भवति । 
चतुर्थ्यामनश्नन् जपति । स विद्यावान् भवति । 
इत्यथर्वणवाक्यम् । ब्रह्माद्याचरणं विद्यान्न बिभेति कदाचनेति ॥ १२॥ 


योदूर्वाङ्कुरैर्यजति । स वैश्रवणोपमोभवति । 
योलाजैर्यजति । स यशोवान् भवति । स मेधावान् भवति । 
योमोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति । यः साज्य समिद्भिर्यजति । स सर्वं लभते स सर्वं लभते॥ १३॥ 


अष्टौब्राह्मणान् सम्यग् ग्राहयित्वा । सूर्यवर्चस्वी भवति । 
सूर्यग्रहेमहानद्यां प्रतिमासन्निधौवा जप्त्वा । सिद्धमन्त्रोभवति । 
महाविघ्नात् प्रमुच्यते। महादोषात् प्रमुच्यते। 
महापापात् प्रमुच्यते। महाप्रत्यवायात् प्रमुच्यते। 
स सर्वविद्भवति स सर्वविद्भवति । य एवं वेद । इत्युपनिषत् ॥ १४॥ 


ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । 
स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः । व्यशेम देवहितं यदायुः । 
स्वस्ति न इन्द्रोवृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । 
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नोबृहस्पतिर्दधातु॥ 


ॐ शान्तिः शान्तिः शान्तिः ॥ 
इति गणपत्युपनिषत्समाप्ता ॥ 

Comments

Write a Reply or Comment

Your email address will not be published. Required fields are marked *





Related Posts